|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.26. अध्यायः 026
Mahabharata - Karna Parva - Chapter Topics
देबानामाज्ञया विश्वकर्मणा भूम्यादिसाधनै रुद्राय रथनिर्माणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
दुर्योधन उवाच। 8-26-0x(4893)(56167)
तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने।
पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम्॥ 8-26-1(56168)
ऊचुः सर्वे समाभाष्य रथः सङ्कल्प्यतामिति।
विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत्॥ 8-26-2(56169)
समेतां पृथिवीं देवी विशालां पुरमालिनीम्।
सपर्वतवनद्वीपां चक्रे भूतधरां रथम्॥ 8-26-3(56170)
ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम्।
अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम्॥ 8-26-4(56171)
हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम्।
अवस्करं प्रतिष्ठानं कल्पयामास वै तदा॥ 8-26-5(56172)
अस्तंगिरिमधिष्ठानं नानाद्विजगणायुतम्।
चकार भगवांस्त्वष्टा उदयं रथकूबरम्॥ 8-26-6(56173)
मीननक्रझषावासं दानवालयमुत्तमम्।
समुद्रमक्षं विदधे पत्तनाकरशोभितम्॥ 8-26-7(56174)
चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम्।
दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम्॥ 8-26-8(56175)
गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः।
अलङ्कारा रथस्यासन्नापगाः सरितस्तथा॥ 8-26-9(56176)
त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम्।
अनुकर्षान्रथे दीप्तान्वरूथांश्चापि तारकाः॥ 8-26-10(56177)
ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत्।
अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः॥ 8-26-11(56178)
अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा।
द्यां युगं युगपर्वाणि संवर्तकबलाहरकान्॥ 8-26-12(56179)
शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च।
ऋघ्वेदं सामवेदं च धुर्यावश्वावकल्पयत्॥ 8-26-13(56180)
पृष्ठाश्वौ तु यजुर्वेदः कल्पितोऽथर्वणस्तथा।
अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम्॥ 8-26-14(56181)
सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम्।
योक्ताणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान्। 8-26-15(56182)
तालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ।
इतरे चाभवन्नागा हयानां वाहबन्धनम्॥ 8-26-16(56183)
अभीशवः षडङ्गानि कल्पितानि महीपते।
ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा॥ 8-26-17(56184)
यज्ञाः सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः।
अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती॥ 8-26-18(56185)
नानावर्णानि शस्त्राणि पताकाः पवनेरिताः।
विद्युदिन्द्रधनुर्युक्तं रथं दीप्त्या व्यदीपयत्॥ 8-26-19(56186)
वर्म योद्धुं च विहितं नमो ग्रहगणाकुलम्।
अभेद्यं भानुमच्चित्रं कालचक्रपरिक्षतम्॥ 8-26-20(56187)
एवमस्मिन्महाराज कल्पिते रथसत्तमे।
त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने॥ 8-26-21(56188)
स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे।
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम्॥ 8-26-22(56189)
ब्रह्मदण़्डः कालदम्डो रुद्रदण्डश्च ते ज्वराः।
परिष्कारा र्थस्यासन्समन्ताद्दिशमुद्धताः॥ 8-26-23(56190)
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम्॥ 8-26-24(56191)
कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः।
तस्माद्रौद्री कालरात्री ज्या कृता धनुषो जरा॥ 8-26-25(56192)
ततो रथे रथाश्वांस्तानृषयः समयोजयन्।
एकैकशः सुसंहृष्टानादाय सुधृतव्रताः॥ 8-26-26(56193)
दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः।
सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः॥ 8-26-27(56194)
पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः।
इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः॥ 8-26-28(56195)
एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे।
अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः॥ 8-26-29(56196)
कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत्।
चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम्॥ 8-26-30(56197)
शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः।
तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा॥ 8-26-31(56198)
पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम।
अग्नीषोमौ शरमुखे कल्पयामास वै तदा॥ 8-26-32(56199)
अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत्।
विष्णुरात्मा भगवतो भवस्यामिततेजसः॥ 8-26-33(56200)
तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै।
तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुःसहं प्रभुः॥ 8-26-34(56201)
भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुःसहः।
स नीललोहितो धूम्रः कृत्तिवासा भयानकः॥ 8-26-35(56202)
आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः।
दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां वरः॥ 8-26-36(56203)
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्।
जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम्॥ 8-26-37(56204)
दृष्टा तु तं रथं दिव्यं कवची स शरासनी।
आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम्॥ 8-26-38(56205)
तमादाय महादेवस्त्रासयन्दैत्यदानवान्।
आरुरोह तदा यत्तः कम्पयन्निव रोदसी॥ 8-26-39(56206)
महर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः।
उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः॥ 8-26-40(56207)
स शोभमानो वरदः खङ्गी बाणी शरासनी।
हसन्निवाब्रवीद्देवः सारथिः को भवेदिति॥ ॥ 8-26-41(56208)
इति श्रीमन्महाभारते कर्णपर्वणि षड्विंशोऽध्यायः॥ 26 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|